|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.33. अध्यायः 033
Mahabharata - Sabha Parva - Chapter Topics
जनमेजयप्रश्नानुरोधेन सहदेवस्य द्राविडपाण्ड्यदेशगमनकथनम्॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
`जनमेजय उवाच॥
इच्छाम्यागमनं श्रोतुं हैडिम्बस्य द्विजोत्तम।
लङ्कायां च गतिं ब्रह्मन्पौलस्त्यस्य च दर्शनम्॥ 2-33-1(12688)
कावेरीदर्शनं चैव आनुपूर्व्या वदस्व मे। 2-33-2(12689)
वैशम्पायन उवाच।
शृणु राजन्यथा वृत्तं सहेदवस्य साहसम्॥ 2-33-2x(1445)
कालनद्वीपगांश्चैव तरसाऽजित्य चाहवे।
दक्षिणां च दिशं जित्वा चोलस्य विषयं ययौ॥ 2-33-3(12690)
ददर्श पुण्यतोयां वै कावेरीं सरितां वराम्।
नाजापक्षिगणैर्जुष्टां तापसैरुपशोभिताम्॥ 2-33-4(12691)
कदम्बैः सप्तपर्णैश्च कश्मर्यामलकैर्वृताम्॥ 2-33-5(12692)
न्यग्रोधैश्च महाशाखैः प्लक्षैरौदुम्बरैरपि।
शमीपलाशवृक्षैश्च अश्वत्थैः खदिरैर्वृताम्॥ 2-33-6(12693)
बदरीभिश्च सञ्छन्नामश्वकर्णैश्च शोभिताम्।
बूतैः पुण्ड्रकपत्रैश्च कदलीवनसंवृताम्॥ 2-33-7(12694)
चक्रवाकगणैः कीर्णं प्लवैश्च जलवायसैः।
समुद्रकाकैः क्रौञ्चैश्च नादितां जलकुक्कुटैः॥ 2-33-8(12695)
एवं खगैश्च बहुभिः सङ्घुष्टां जलवासिभिः।
आश्रमैर्बहुभिः सक्तां चैत्यवृक्षैश्च शोभिताम्॥ 2-33-9(12696)
शोभितां ब्राह्मणैः शुभ्रैर्वेदवेदाङ्गपारगैः।
क्वचित्तीररुहैर्वृक्षैर्मालाभिरिव शोभिताम्॥ 2-33-10(12697)
क्वचित्सुपुष्पितैर्वृक्षैः क्वचित्सौगन्धिकोत्पलैः।
कह्लारकुमुदोत्फुल्लैः कमलैरुपशोभिताम्॥ 2-33-11(12698)
कावेरीं तादृशीं दृष्ट्वा प्रीतिमान्पाण्डवस्तदा।
अस्मद्राष्ट्रे यथा गङ्गा कावेरी च तथा शुभा॥ 2-33-12(12699)
सहदेवस्तु तां तीर्त्वा नदीमनुचरैः सह।
दक्षिणं तीरभासाद्य गमनायोपचक्रमे॥ 2-33-13(12700)
आगतं पाण्डवं तत्र श्रुत्वा विषयवासिनः।
दर्शनार्थं ययुस्ते तु कौतूहलसमन्विताः॥ 2-33-14(12701)
द्रमिडाः पुरुषा राजन्स्रियचश्च प्रियदर्शनाः।
गत्वा पाण्डुसुतं तत्र ददृशुस्ते मुदाऽन्विताः॥ 2-33-15(12702)
सुकुमारं विशालाक्षं व्रजन्तं त्रिदशोपमम्।
दर्शनीयतमं लोके नेत्रैरनिमिषैरिव॥ 2-33-16(12703)
आश्चर्यभूतं ददृशुर्द्रमिडास्ते समागताः।
महासेनोपमं दृष्ट्वा पूजां चक्रुश्च तस्य वै॥ 2-33-17(12704)
रत्नैश्च विविधैरिष्टैर्भोगैरन्यैश्च संमतैः।
गतिमङ्गलयुक्तार्भिः स्तुवन्तो नकुलानुजम्॥ 2-33-18(12705)
सहदेवस्तु तान्दृष्ट्वा द्रमिलानागतान्मुदा।
विसृज्य तान्महाबाहुः प्रस्थितो दक्षिणां दिशम्॥ 2-33-19(12706)
दूतेन तरसा चोलं विजित्य द्रमिडेश्वरम्।
ततो रत्नान्युपादाय पाण्डस्य विषयं ययौ॥ 2-33-20(12707)
दर्शने सहदेवस्य न च तृप्ता नराः परे।
गच्छन्तमनुगच्छन्तः प्राप्ताः कौतूहलान्विताः॥ 2-33-21(12708)
ततो माद्रीसुतों राजन्मृगसङ्घान्विलोकयन्।
गजान्वनचरानन्यान्व्याघ्रान्कुष्णमृगान्बहून् ॥ 2-33-22(12709)
शुकान्मयूरान्दृष्ट्वा तु गृध्रानारण्यकुक्कुटान्।
ततो देशं समासाद्य श्वशुरस्य महीपतेः॥ 2-33-23(12710)
प्रेषयामास माद्रेयो दूतान्पाण्ड्याय वै तदा।
प्रतिजग्राह तस्याज्ञां सम्प्रीत्या मलयध्वजः॥ 2-33-24(12711)
भार्या रूपवती जिष्णोः पाण्ड्यस्य तनया शुभा।
चित्राङ्गदेति विख्याता द्रमिडी योषितां वरा॥ 2-33-25(12712)
आगतं सहदेवं तु सा श्रुत्वाऽन्तः पुरे पितुः।
प्रेषयामास सम्प्रीत्या पूजारत्नं च वै बहु॥ 2-33-26(12713)
पाण्ड्योऽपि बहुरत्नानि दूतैः सह मुमोच ह।
मणिमुक्ताप्रवालानि सहदेवाय कीर्तिमान्॥ 2-33-27(12714)
तां दृष्ट्वाऽप्रतिमां पूजां पाण्डवोऽपि मुदा नृप।
भ्रातुः पुत्रे बहून्रत्नान्दत्वा वै बभ्रूवाहने॥ 2-33-28(12715)
पाण्ड्यं द्रमिडराजानं श्वशुरं मलयध्वजम्।
स दूतैस्तं वशे कृत्वा मणलूरेश्वरं तदा॥ 2-33-29(12716)
ततो रत्नान्युपादाय द्रमिडैरावृतो ययौ।
अगस्त्यस्यालयं दिव्यं देवलोकसमं गिरिम्॥ 2-33-30(12717)
स तं प्रदक्षिमं कृत्वा मलयं भरतर्षभ।
लङ्घयित्वा तु माद्रेयस्ताम्रपणीं नदीं शुभाम्॥ 2-33-31(12718)
प्रसन्नसलिलां दिव्यां सुशीतां च मनोहराम्।
समुद्रतीरमासाद्य न्यविशत्पाण्डुनन्दनः॥ ॥ 2-33-32(12719)
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि त्रयस्त्रिंशोऽध्यायः॥ 33॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|